|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.18. अध्यायः 018
Mahabharata - Shanti Parva - Chapter Topics
अर्जुनेन युधिष्ठिरंप्रति जनकतद्भार्यासंवादकथनपूर्वकं कर्तव्योपदेशः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-18-0x(5909)(72208)
तूष्णींभूतं तु राजानं पुनरेवार्जुनोऽब्रवीत्।
संतप्तः शोकदुःखाभ्यां राजवाक्शल्यपीडितः॥ 12-18-1(72209)
अर्जुन उवाच। 12-18-2x(5910)
कथयन्ति पुरावृत्तमितिहासमिमं जनाः।
विदेहराज्ञः संवादं भार्यया सह भारत॥ 12-18-2(72210)
उत्सृज्य राज्यं भिक्षार्थं कृतबुद्धिं नरेश्वरम्।
विदेहराजमहीषी दुःखिता प्रत्यभाषत॥ 12-18-3(72211)
धनान्यपत्यं मित्राणि रत्नानि विविधानि च।
पन्थानं पावनं हित्वा जनको मौढ्यमास्थितः॥ 12-18-4(72212)
तं ददर्श प्रिया भार्या भैक्षवृत्तिमकिंचनम्।
धानामुष्टिमुपासीनं निरीहं गतमत्सरम्॥ 12-18-5(72213)
तमुवाच समामत्य भर्तारमकुतोभयम्।
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः॥ 12-18-6(72214)
कथमुत्सृज्य राज्यं स्वं धनधान्यसमन्वितम्।
कापालीं वृत्तिमास्थाय धान्यमुष्टिमुपाससे॥ 12-18-7(72215)
प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव।
यद्राज्यं महदुत्सृज्य स्वल्पे लुभ्यसि पार्थिव॥ 12-18-8(72216)
नैतेनातिथयो राजन्देवर्षिपितरस्तथा।
अद्य शक्यास्त्वया भर्तुं मोघस्तेऽयं परिश्रमः॥ 12-18-9(72217)
देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव।
सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः॥ 12-18-10(72218)
यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः।
भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भूतिमिच्छसि॥ 12-18-11(72219)
श्रियं हित्वा प्रदीप्तां त्वं श्ववत्संप्रति वीक्ष्यसे।
अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया॥ 12-18-12(72220)
आश्रिता धर्मकामास्त्वां क्षत्रियाः पर्युपासते।
त्वदाशामभिकाङ्क्षन्तः कृपणाः फलहेतुकाः॥ 12-18-13(72221)
तांश्च त्वं विफलान्कृत्वा कं नु लोकं गमिष्यसि।
राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु॥ 12-18-14(72222)
नैव तेऽस्ति परो लोको नापरः पापकर्मणः।
धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम्॥ 12-18-15(72223)
स्रजो गन्धानलंकारान्वासांसि विविधानि च।
किमर्थमभिसंत्यज्य परिव्रजसि निष्क्रियः॥ 12-18-16(72224)
निपानं सर्वभूतानां भूत्वा त्वं पावनं महत।
आढ्यो वनस्पतिर्भूत्वा सोन्यांस्त्वं पर्युपाससे॥ 12-18-17(72225)
खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत।
बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम्॥ 12-18-18(72226)
य इमां कुण्डिकां भिन्द्यान्त्रिविष्टब्धं च यो हरेत्।
वासश्चापि हरेत्तस्मिन्कथं ते मानसं भवेत्॥ 12-18-19(72227)
यस्त्वं सर्वं समुत्सृज्य धानामुष्टिमनुग्रहः।
यदनेन कृतं सर्वं किमिदं मम दीयते॥ 12-18-20(72228)
धानामुष्टेरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति।
का वाऽहं तव को मे त्वं कश्च ते मय्यनुग्रहः॥ 12-18-21(72229)
प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत्।
प्रासादे शयनं यानं वासांस्याभरणानि च॥ 12-18-22(72230)
श्रियां निराशैरधनेस्त्यक्तमित्रैरकिंचनैः।
सौखिकैः संभृतो योऽर्थः स संत्यजति किंनु तं॥ 12-18-23(72231)
योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि।
तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते॥ 12-18-24(72232)
सदैव याचमानेषु तथा दम्भान्वितेषु च।
एतेषु दक्षिणा दत्ता दावाग्राविव दुर्हुतम्॥ 12-18-25(72233)
जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति।
सदैव याचमानो वै तथा शाम्यति न द्विजः॥ 12-18-26(72234)
सतां वै ददतोऽन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा।
न चेद्राजा भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः॥ 12-18-27(72235)
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च।
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत्॥ 12-18-28(72236)
गृहस्थेभ्योऽपि निर्मुक्ता गृहस्थानेव संश्रिताः।
प्रभवं च प्रतिष्ठां च दान्ता विन्दन्त आसते॥ 12-18-29(72237)
त्यागान्न भिक्षुकं विन्द्यान्न मौढ्यान्न च याचनात्।
ऋजुस्तु योऽर्थं त्यजति तं मुक्तं विद्धि भिक्षुकम्॥ 12-18-30(72238)
असक्तः शक्तवद्गच्छन्निः सङ्गो मुक्तबन्धनः।
समः शत्रौ च मित्रे च स वै मुक्तो महीपते॥ 12-18-31(72239)
परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः।
सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम्॥ 12-18-32(72240)
त्रयीं च नामवार्तां च त्यक्त्वा पुत्रान्व्रजन्ति ये।
त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः॥ 12-18-33(72241)
अनिष्कषाये काषायमीहार्थमिति विद्धि तम्।
धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः॥ 12-18-34(72242)
काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान्।
बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः॥ 12-18-35(72243)
अग्न्याधेयानि गुर्वर्थं क्रतूनपि सुदक्षिणान्।
ददात्यहरहः पूर्वं को नु धर्मरतस्ततः॥ 12-18-36(72244)
अर्जुन उवाच। 12-18-37x(5911)
तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते।
सोऽप्यासीन्मोहसंपन्नो मा मोहवशमन्वगाः॥ 12-18-37(72245)
एवं धर्ममनुक्रान्ता सदा दानतपः पराः।
आनृशंस्यगुणोपेताः कामक्रोधविवर्जिताः॥ 12-18-38(72246)
प्रजानां पालने युक्ता दममुत्तममास्थिताः।
इष्ट्वा लोकानवाप्स्यामो गुरुवृद्धोपचायिनः॥ 12-18-39(72247)
देवतातिथिभूतानां निर्वपन्तो यथाविधि।
स्थानमिष्टमवाप्स्यामो ब्रह्मण्याः सत्यवादिनः॥ ॥ 12-18-40(72248)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टादशोऽध्यायः॥ 18॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-18-5 धाना भृष्टयवाः। निरीहं वितृष्णम्॥ 12-18-8 स्वल्पे मुह्यसीति द.थ. पाठः। प्रतिज्ञाते ते वृथेति ड. पाठः॥ 12-18-9 एतेन धानामुष्टिना॥ 12-18-12 कौसल्या पातिता त्वयेति ट. ड. थ. पाठः॥ 12-18-13 फलहेतुकाः फलार्थिनः॥ 12-18-17 निपीयतेऽस्मिन्स्वेच्छया गोभिर्जलमिति निपानं आहावः। कूपोपान्तस्थक्षुद्रजलाशय इतियावत्। तथा आढ्यः फलवान्॥ 12-18-18 हस्तिनमपि न्यासे कृते सति क्रव्यादा मांसादाः खादन्ति। अनर्थकं सर्वपुरुषार्थहीनम्॥ 12-18-19 त्रिविष्टब्धं त्रिदण्डम्॥ 12-18-20 अनुग्रहः अन्वग्रहीः। यदानेन समं सर्वं किमिदं ह्यवसीयते इति झ. पाठः। तत्र अवसीयसे अध्यवस्यति। अनेन धानामुष्टिना सर्वं राज्यादिकं समम्। सङ्गित्वाविशेषात् इत्यर्थः॥ 12-18-23 सौखिकैः संभृतानर्थान्यः संत्यजति किंनु तत् इति झ. पाठः। तत्र सौखिकैः परममुखार्थिभिः संन्यासिभिः। संभृतानर्थान् कुण्डिकादीन् वीक्ष्य यः स्वयमपि तथा करोति स किंनु तद्राज्यादिकं त्यजति। अपितु नैव त्यजति। किंतूचितं परिग्रहं त्यक्त्वा दैवोपहतत्वादनुचितं परिग्रहान्तरमेव करोतीत्यसङ्गत्वमस्य दुर्लभमित्यर्थः॥ 12-18-25 सदैव वाचमानः परिव्राट्। सदैव याचमानेषु सत्सु (दण्ड)डम्भविवर्जिषु इति ट.ड. थ. द. पाठः॥ 12-18-26 सदैव याचमानो हि तथा शाम्यति वै द्विजः। इति झ. पाठः॥ 12-18-27 सतां संन्यासिनां प्रकृतिर्जीवनम्। सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा। अन्नदाता भवेद्दाता कुशास्त्रं मोक्षकाङ्क्षिणः। इति ट.ड.थ.द. पाठः॥ 12-18-32 परिव्रजन्ति येऽनर्था इति ट. ड. पाठः॥ 12-18-34 अनिष्कषाये रागादिदोषवर्जनाभावे। अनिष्कषायाः काषायमिति ड. थ. द. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|